Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers RaJaT JaiN
-
- Religion & Spirituality
Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw
-
Vatapi Ganpatim Bhajeham वातापि गणपतिं भजेहं
Vatapi Ganpatim Bhajeham वातापि गणपतिं भजेहं ◆
वातापि गणपतिं भजेऽहं
वारणाश्यं वरप्रदं श्री ।
भूतादि संसेवित चरणं भूत भौतिक प्रपञ्च भरणम् ।
वीतरागिणं विनुत योगिनं विश्वकारणं विघ्नवारणम् ।
पुरा कुम्भ सम्भव मुनिवर प्रपूजितं त्रिकोण मध्यगतं
मुरारि प्रमुखाद्युपासितं मूलाधार क्षेत्रस्थितम् ।
परादि चत्वारि वागात्मकं प्रणव स्वरूप वक्रतुण्डं
निरन्तरं निखिल चन्द्रखण्डं निजवामकर विद्रुतेक्षुखण्डम् ।
कराम्बुज पाश बीजापूरं कलुषविदूरं भूताकारं
हरादि गुरुगुह तोषित बिम्बं हंसध्वनि भूषित हेरम्बम् ।
◆ -
Vaakambhrini Suktam वाकम्भृणी सूक्तम्
Vaakambharni Suktam वाकम्भरणी सूक्तम् ★
यह सूक्त ऋग्वेद के मंडल १० के सूक्त १२५ में लिखा गया है, इसे कहीं-कहीं वाकम्भरणी सूक्त भी कहा गया है,
ऋग्वेदोक्तं देवी सूक्तम् - ★
विनियोगः -
ॐ अहमित्यष्टर्चस्य सूक्तस्य वागाम्भृणी ऋषिः, सच्चित्सुखात्मकः सर्वगतः परमात्मा देवता, द्वितीयाया ऋचो जगती, शिष्टानां त्रिष्टुप् छन्दः, देविमाहात्म्यपाठे विनियोगः ★
ध्यानम्
ॐ सिंहस्था शशिशेखरा मरकतप्रख्यैश्चतुर्भिर्भुजैः
शङ्खं चक्रधनुःशराम्च् दधती नेत्रैस्त्रिभिः शोभिता,
आमुक्ताङ्ग्द हारकङ्क्ण रणत्कान्ची रणन्नूपूरा दुर्गा दुर्गतिहारिणी भवतु नो रत्नोल्लसत्कुण्डला.
★ देवीसूक्तम् -
ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः।
अहं मित्रावरुणोभा विभर्म्यहमिन्द्राग्नी अहमश्विनोभा ।।1।।
अहं सोममाहनसं विभर्म्यहं त्वष्टारमुत पूषणं भगम्।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ।।2।।
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम्
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्य्यावेशयन्तीम् ।।3।।
मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत् युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि।।4।।
अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।।5।।
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं क्रिणोम्यहं द्यावापृथिवी आ विवेश ।।6।।
अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ।।7।।
अहमेव वात इव प्रवाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिना संबभूव ।।8।।
★
॥ इति श्री ऋग्व -
Akshat (Rice) Arpan Mantra अक्षत (चावल) अर्पण मन्त्र
Akshat (Rice) Arpan Mantra अक्षत (चावल) अर्पण मन्त्र ★
जैन मंदिर में वेदी पर चावल आदि द्रव्य को निम्न श्लोक बोलते हुए मन्त्र को उच्चारण करते हुए चढाये
★ उदक चन्दन तन्दुल पुष्पकैः
चरू सुदीप सुधूप फलार्घकैः।
धवलं मंगल गान र वा कुले:
जिन गृहे जिननाथ महं-यजे।। ★
पांच पुंज (ढेरी) में ★
"ऊँ ह्रीं श्री गर्भ-जन्म-तप-ज्ञान-निर्वाण कल्याणक प्राप्ताय जलादि अर्घ्य निर्वपामीती स्वाहा" ★
इस प्रकार मंत्र बोलते हुए चढ़ाना चाहिये। -
Krodh Shanti Mantra क्रोध शांति मन्त्र
Krodh Shanti Mantra क्रोध शांति मन्त्र ★ ॐ शान्तं प्रशान्तं सर्वक्रोध - प्रशमति स्वाहा।
★ प्रयोग विधि - एक लोटा जल लेकर उसको इस मन्त्र से 21 बार अभिमन्त्रित करें, फिर उसी जल से तीन बार मुंह पर छीटे मारकर धोयें। क्रोध शान्त हो जायेगा। -
Sri Kumari Stotram | श्री कुमारी स्तोत्रम् | ஸ்ரீ குமாரி ஸ்தோத்திரம் | ശ്രീ കുമാരി സ്തോത്രം
Sri Kumari Stotram श्री कुमारी स्तोत्रम् ★
जगत्पूज्ये जगद्वन्द्ये सर्वशक्तिस्वरूपिणि ।
पूजां गृहाण कौमारि जगन्मातर्नमोऽस्तु ते ॥ १ ॥
त्रिपुरां त्रिगुणाधारां त्रिवर्गज्ञानरूपिणीम् ।
त्रैलोक्यवन्दितां देवीं त्रिमूर्ति पूजयाम्यहम् ॥२॥
कलात्मिकां कलातीतां कारुण्यहृदयां शिवाम्
कल्याणजननीं देवीं कल्याणीं पूजयाम्यहम् ॥३॥
अणिमादिगुणाधरामकाराद्यक्षरात्मिकाम् ।
अनन्तशक्तिकां लक्ष्मीं रोहिणीं पूजयाम्यहम् ॥४॥
कामचारीं शुभां कान्तां कालचक्रस्वरूपिणीम् ।
कामदां करुणोदारां कालिकां पूजयाम्यहम् ॥५॥
चण्डवीरां चण्डमायां चण्डमुण्डप्रभञ्जिनीम् ।
पूजयामि सदा देवीं चण्डिकां चण्डविक्रमाम् ॥६॥
सदानन्दकरीं शान्तां सर्वदेवनमस्कृताम् ।
सर्वभूतात्मिकां लक्ष्मीं शाम्भवीं पूजयाम्यहम् ॥७॥
दुर्गमे दुस्तरे कार्ये भवदुःखविनाशिनीम् । पूजयामि सदा भक्त्या दुर्गां दुर्गार्तिनाशिनीम् ॥८ ॥
सुन्दरीं स्वर्णवर्णाभां सुखसौभाग्यदायिनीम्।
सुभद्रजननीं देवीं सुभद्रां पूजयाम्यहम् ॥९॥
इति श्री कुमारी स्तोत्रम् । -
Vasudev Krit Shri Krishna Stotra वसुदेव कृत श्रीकृष्ण स्तोत्र
Vasudev Krit Shri Krishna Stotra वसुदेव कृत श्रीकृष्ण स्तोत्र •
श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥
स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।
निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥
स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥
शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।
प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥
सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥
अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।
यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।
गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥
ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।
स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥
श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।
विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥
वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥
विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।
सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥ • ॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे वसुदेवकृतं श्रीकृष्णस्तोत्रं संपूर्णम् ॥