904 episodes

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw

Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers RaJaT JaiN

    • Religion & Spirituality

Chanting And Recitation Of Jain & Hindu Mantras And Prayers. Subscribe to my youtube channel : https://youtube.com/channel/UCmmeT83dQo1WxHyELqwx7Qw

    Shiv Kshamapana Stotram शिवक्षमापण स्तोत्रम्

    Shiv Kshamapana Stotram शिवक्षमापण स्तोत्रम्

    Shiv Kshamapana Stotram शिवक्षमापण स्तोत्रम् ◆
    ॐ गौरीश्वराय भुवनत्रयकारणाय भक्तप्रियाय भवभीतिभिदे भवाय । शर्वाय दुःखशमनाय वृषध्वजाय रुद्राय कालदहनाय नमः शिवाय ॥ १॥ सर्वेश्वरत्वे सति भस्मशायिने ह्युमापतित्वे सति चोर्ध्वरेतसे । वित्तेशभृत्ये सति चर्मवाससे निवृत्तरागाय नमस्तपस्विने ॥ २॥ ओङ्कारेण विहीनस्य नित्यमुद्विग्नचेतसः । तापत्रयाग्नितप्तस्य त्राणं कुरु महेश्वर ॥ ३॥ कायपोषणसक्तस्य रोगशोकाकुलस्य च । भवार्णवनिमग्नस्य त्राणं कुरु महेश्वर ॥ ४॥ मदनोरगदष्टस्य क्रोधाग्निज्वलि तस्य च । लोभमोहादिसक्तस्य त्राणं कुरु महेश्वर ॥ ५॥तृष्णाशृङ्खलया नाथ बद्धस्य भवपञ्जरे । कृपार्द्रदीनचित्तस्य त्राणं कुरु महेश्वर ॥ ६॥ भटैर्नानाविधैर्घोरैर्यमस्याज्ञाविधायकैः । तां दिशं नीयमानस्य त्राणं कुरु महेश्वर ॥ ७॥दुष्टस्य नष्टचित्तस्य श्रेष्ठमार्गोज्झितस्य च । अनाथस्य जगन्नाथ त्राणं कुरु महेश्वर ॥ ८॥संसारपाशदृढबन्धनपीडितस्य मोहान्धकारविषमेषु निपातितस्य । कामार्दितस्य भयरागखलीकृतस्य दीनस्य मे कुरु दयां परलोकनाथ ॥ ९॥ दीनोऽस्मि मन्दधिषणो ऽस्मि निराश्रयोऽस्मि दासोऽस्मि साधुजनतापरिवर्जितोऽस्मि । दुष्टोऽस्मि दुर्भगतमोऽस्मि गतत्रपोऽ स्मि धर्मोज्झितोऽस्मि विकलोऽस्मि कलङ्कितोऽस्मि ॥ १०॥ भीतोऽस्मि भङ्गुरतमोऽस्मि भयानकोऽस्मि शङ्काशतव्यतिकराकुलचेतनोऽस्मि । रागादिदोषनिकरैर्मुखरीकृतोऽस्मि सत्यादि शौचनियमैः परिवर्जितोऽस्मि ॥ ११॥ जन्माटवीभ्रमणमारुतखेदितोऽस्मि नित्यामयोस्म्यऽ शरणो स्म्यऽसमञ्जसोऽस्मि । आशानिरङ्कुशपिशाचिकयार्दितोऽस्मि हास्योऽस्मि हा पशुपते शरणागतोऽस्मि ॥ १२॥ हा हतोऽस्मि विनष्टोऽस्मि दष्टोऽस्मि चपलेन्द्रियैः । भवार्णवनिमग्नोऽस्मि किं त्रातुं मम नार्हसि ॥ १३॥ यदि

    • 11 min
    Dattatreya Stotra दत्तात्रेय स्तोत्र

    Dattatreya Stotra दत्तात्रेय स्तोत्र

    Dattatreya Stotra दत्तात्रेय स्तोत्र ◆

    जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम् ।

    सर्वरोगहरं देवं दत्तात्रेयमहं भजे ।।

    विनियोग –

    अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारद ऋषि:, अनुष्टुप् छन्द:, श्रीदत्त: परमात्मा देवता, श्रीदत्तप्रीत्यर्थं जपे विनियोग: । ◆

    जगदुत्पत्तिकर्त्रे च स्थितिसंहारहेतवे ।

    भवपाशविमुक्ताय दत्तात्रेय नमोsस्तु ते ।।1।।

    जराजन्मविनाशाय देहशुद्धिकराय च।
    दिगम्बर दयामूर्ते दत्तात्रेय नमोsस्तु ते ।।2।।
    कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।
    वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोsस्तु ते ।।3।।

    हृस्वदीर्घकृशस्थूलनामगोत्रविवर्जित । पंचभूतैकदीप्ताय दत्तात्रेय नमोsस्तु ते ।।4।। यज्ञभोक्त्रै च यज्ञाय यज्ञरूपधराय च । यज्ञप्रियाय सिद्धाय दत्तात्रेय नमोsस्तु ते ।।5।। आदौ ब्रह्मा मध्ये विष्णुरन्ते देव: सदाशिव:। मूर्तित्रयस्वरूपाय दत्तात्रेय नमोsस्तु ते ।।6।। भोगालयाय भोगाय योग्ययोग्याय धारिणे। जितेन्द्रिय जितज्ञाय दत्तात्रेय नमोsस्तु ते ।।7।। दिगम्बराय दिव्याय दिव्यरूपधराय च । सदोदितपरब्रह्म दत्तात्रेय नमोsस्तु ते ।।8।।
    जम्बूद्वीपे महाक्षेत्रे मातापुरनिवासिने ।
    जयमान: सतां देव दत्तात्रेय नमोsस्तु ते ।।9।।
    भिक्षाटनं गृहे ग्रामे पात्रं हेममयं करे ।
    नानास्वादमयी भिक्षा दत्तात्रेय नमोsस्तु ते ।।10।।
    ब्रह्मज्ञानमयी मुद्रा वस्त्रे चाकाशभूतले।
    प्रज्ञानघनबोधाय दत्तात्रेय नमोsस्तु ते ।।11।।
    अवधूत सदानन्द परब्रह्मस्वरूपिणे ।

    विदेहदेहरूपाय दत्तात्रेय नमोsस्तु ते ।।12।।
    सत्यरूप सदाचार सत्यधर्मपरायण ।

    सत्याश्रय परोक्षाय दत्तात्रेय नमोsस्तु ते ।।13।। शूलहस्त गदापाणे वनमालासुकन्धर।
    यज्ञसूत्रधर ब्रह्मन् दत्तात्रेय नमोsस्तु ते ।।14।।
    क्षराक्षरस्वरूपाय परात्परतराय च ।

    दत्तमु

    • 8 min
    Pavitra Ganga Stotram पवित्र गंगा स्तोत्रम्

    Pavitra Ganga Stotram पवित्र गंगा स्तोत्रम्

    Pavitra Ganga Stotram पवित्र गंगा स्तोत्रम्
    ★ श्री गंगा जी की स्तुति ★
    गांगं वारि मनोहारि मुरारिचरणच्युतम् ।
    त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥ ★
    माँ गंगा स्तोत्रम्॥
    देवि सुरेश्वरि भगवति गङ्गे
    त्रिभुवनतारिणि तरलतरङ्गे ।
    शङ्करमौलिविहारिणि विमले
    मम मतिरास्तां तव पदकमले ॥१॥

    भागीरथि सुखदायिनि मातस्तव
    जलमहिमा निगमे ख्यातः ।
    नाहं जाने तव महिमानं
    पाहि कृपामयि मामज्ञानम् ॥ २॥

    हरिपदपाद्यतरङ्गिणि गङ्गे
    हिमविधुमुक्ताधवलतरङ्गे ।
    दूरीकुरु मम दुष्कृतिभारं
    कुरु कृपया भवसागरपारम् ॥ ३॥

    तव जलममलं येन निपीतं,
    परमपदं खलु तेन गृहीतम् ।
    मातर्गङ्गे त्वयि यो भक्तः
    किल तं द्रष्टुं न यमः शक्तः ॥ ४॥

    पतितोद्धारिणि जाह्नवि गङ्गे
    खण्डितगिरिवरमण्डितभङ्गे ।
    भीष्मजननि हे मुनिवरकन्ये,
    पतितनिवारिणि त्रिभुवनधन्ये ॥ ५॥

    कल्पलतामिव फलदां लोके,
    प्रणमति यस्त्वां न पतति शोके ।
    पारावारविहारिणि गङ्गे
    विमुखयुवतिकृततरलापाङ्गे ॥ ६॥

    तव चेन्मातः स्रोतःस्नातः
    पुनरपि जठरे सोऽपि न जातः ।
    नरकनिवारिणि जाह्नवि गङ्गे
    कलुषविनाशिनि महिमोत्तुङ्गे ॥ ७॥

    पुनरसदङ्गे पुण्यतरङ्गे
    जय जय जाह्नवि करुणापाङ्गे ।
    इन्द्रमुकुटमणिराजितचरणे
    सुखदे शुभदे भृत्यशरण्ये ॥ ८॥

    रोगं शोकं तापं पापं
    हर मे भगवति कुमतिकलापम्।
    त्रिभुवनसारे वसुधाहारे
    त्वमसि गतिर्मम खलु संसारे॥ ९॥

    अलकानन्दे परमानन्दे
    कुरु करुणामयि कातरवन्द्ये ।
    तव तटनिकटे यस्य निवासः
    खलु वैकुण्ठे तस्य निवासः ॥ १०॥

    वरमिह नीरे कमठो मीनः
    किं वा तीरे शरटः क्षीणः ।
    अथवा श्वपचो मलिनो दीनस्तव
    न हि दूरे नृपतिकुलीनः॥ ११॥

    भो भुवनेश्वरि पुण्ये धन्ये
    देवि द्रवमयि मुनिवरकन्ये ।
    गङ्गास्तवमिमममलं नित्यं
    पठति नरो यः स जयति सत्यम् ॥ १२॥

    येषां हृदये गङ्गाभक्तिस्तेषां
    भवति सदा सुखमुक्तिः ।
    मधुराकान्

    • 6 min
    Sri Ram Taarak Mantra श्री राम तारक मंत्र 11 times

    Sri Ram Taarak Mantra श्री राम तारक मंत्र 11 times

    Sri Ram Taarak Mantra श्री राम तारक मंत्र ◆ सौभाग्य और सुख की प्राप्ति के लिए श्री राम तारक मंत्र ~


    राम रामेति रामेति, रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं, रामनाम वरानने ॥

    • 3 min
    Hanuman Tandav Stotram हनुमान ताण्डव स्तोत्रम्

    Hanuman Tandav Stotram हनुमान ताण्डव स्तोत्रम्

    Hanuman Tandav Stotram हनुमान ताण्डव स्तोत्रम् ★
    हनुमान तांडव स्तोत्र सावधानी से पढ़ना चाहिए। इसके पढ़ने से हर तरह के संकट, रोग, शोक आदि सभी तत्काल प्रभाव से समाप्त हो जाते हैं।

    वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् ।
    रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥

    भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं, दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् ।
    सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं, समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥ १॥

    सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रय अत्र वो भयं कदापि न ।
    इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः ॥ २॥

    सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना, भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ ।
    कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ, विदहजेशलक्ष्मणौ, स मे शिवं करोत्वरम् ॥ ३॥

    सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः,
    कपीश नाथसेवकं, समस्तनीतिमार्गगम् ।
    प्रशस्य लक्ष्मणं प्रति, प्रलम्बबाहुभूषितः कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः ॥ ४॥

    प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं, फणीशमातृगर्वहृद्दृशास्यवासनाशकृत् ।
    विभीषणेन सख्यकृद्विदेह जातितापहृत्, सुकण्ठकार्यसाधकं, नमामि यातुधतकम् ॥ ५॥

    नमामि पुष्पमौलिनं, सुवर्णवर्णधारिणं
    गदायुधेन भूषितं, किरीटकुण्डलान्वितम् ।
    सुपुच्छगुच्छतुच्छलंकदाहकं सुनायकं विपक्षपक्षराक्षसेन्द्र-सर्ववंशनाशकम् ॥ ६॥

    रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम् ।
    विदेहजातिशोकतापहारिणम् प्रहारिणम् सुसूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् ॥ ७॥

    नभस्वदात्मजेन भास्वता त्वया कृता महासहा यता यया द्वयोर्हितं ह्यभूत्स्वकृत्यतः ।
    सुकण्ठ आप तारकां रघूत्तमो विदेहजां
    निपात्य वालिनं प्

    • 7 min
    Maruti Stotram मारुति स्तोत्रम्

    Maruti Stotram मारुति स्तोत्रम्

    Maruti Stotram मारुति स्तोत्रम् ★
    ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय । 

    प्रतापवज्रदेहाय । अंजनीगर्भसंभूताय । 
    प्रकटविक्रमवीरदैत्यदानवयक्षरक्षोगणग्रहबंधनाय । 

    भूतग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय । 
    शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय । 

    ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय । 

    मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय । 

    मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय । 

    व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन 

    शत्रुमुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन । अमुकं मे वशमानय । 

    क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय । 

    श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रुन्मर्दय मर्दय मारय मारय 

    चूर्णय चूर्णय खे खे 

    श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु 

    ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा 

    विचित्रवीर हनुमत् मम सर्वशत्रून् भस्मीकुरु कुरु । 

    हन हन हुं फट् स्वाहा ॥ 

    एकादशशतवारं जपित्वा सर्वशत्रून् वशमानयति नान्यथा इति ॥ 

    इति श्रीमारुतिस्तोत्रं संपूर्णम् ॥ 

    • 3 min

Top Podcasts In Religion & Spirituality

Bhagavad Gita
Spydor Studios
The Jesus Podcast
Pray.com
Shri Hanuman Chalisa by Sandeep Khurana
Sandeep Khurana
Gita For Daily Living
Neil Bhatt
The Jesus Podcast
Callie Smith
Words of Life, Good News, Gospel Songs -  IN INDIA, THE NUMBER OF SPEAKERS OF DIFFERENT MOTHER TONGUE.(No.26-No.55)/जी
Tze-John Liu

You Might Also Like

Lessons for Life
Gaur Gopal Das
A Century Of Stories
IVM Podcasts
Om - Chanting and Recitation
Sukadev Bretz - Joy and Peace through Mantra
Drops of Nectar For Joyful Living
The Parmarth Niketan Podcast
Hanuman Aarti Sangrah
Rajshri Entertainment Private Limited
Stotras and Shlokas Recited by Veraa
Veraa