Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र

Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र

यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।

भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥

हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः ।

अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥

स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।

नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥

वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।

उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥

पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने ।

नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥

नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।

मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥

नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।

अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥

सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।

सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥

अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते।

परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥

अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय ।

अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥

य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् ।

न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥

त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्।

विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥

इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥