Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्

Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्

नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे ।

नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥

नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे ।

सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥

महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये ।

वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥

उद्यद्भानुसहस्राभे नयनत्रयभूषिते ।

रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥

विचित्रवसने देवि भवदुःखविनाशिनि ।

कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥

साधकाभीष्टदे देवि अन्नदानरतेऽनघे ।

विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥

षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये ।

ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥

देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि ।

सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥

पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः ।

तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥

प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् ।

तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥

यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥

त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् ।

ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥

🪷🪷🪷🪷🪷