Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र

🌹सर्वदेव कृत लक्ष्मी स्तोत्र 🌹

🌹क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे।

शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥

🌹उपमे सर्वसाध्वीनां देवीनां देवपूजिते।

त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २॥

🌹सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी।

रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥३॥

🌹कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका।

स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४॥

🌹वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती।

गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥५॥

🌹कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्।

रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥६॥

🌹कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने ।

विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥

🌹पद्मावती पद्मवने मालती मालतीवने।

कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥

🌹कदम्बमाला त्वं देवी कदम्बकाननेऽपि च।

राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥

🌹इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा।

रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥१०॥

🌹इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्।

यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११॥

🌹अभार्यो लभते भार्यां विनीतां च सुतां सतीम्।

सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥ १२॥

🌹पुत्रपौत्रावतीं शुद्धां कुलजां कोमलां वराम्।

अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥१३॥

🌹परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्।

भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४॥

🌹हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत् ।

कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेध्रुवम् ॥ १५॥

🌹सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम्।

हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥१६॥