Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

  1. Surabhi Stotram सुरभि स्तोत्रम्

    -5 J

    Surabhi Stotram सुरभि स्तोत्रम्

    ।। श्री सुरभि स्तोत्रम् ।। ✓ नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥ नमो राधा प्रियायै च पद्मांशायै नमो नमः । नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥ कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् । श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥ शुभदायै प्रसन्नायै गोप्रदायै नमो नमः । यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥ स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥ महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥ सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥ सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् । न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥ इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥

    4 min
  2. Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र

    29 OCT.

    Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र

    🌹सर्वदेव कृत लक्ष्मी स्तोत्र 🌹 🌹क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ 🌹उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २॥ 🌹सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी। रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥३॥ 🌹कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका। स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४॥ 🌹वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती। गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥५॥ 🌹कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्। रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥६॥ 🌹कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥ 🌹पद्मावती पद्मवने मालती मालतीवने। कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥ 🌹कदम्बमाला त्वं देवी कदम्बकाननेऽपि च। राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥ 🌹इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा। रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥१०॥ 🌹इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्। यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११॥ 🌹अभार्यो लभते भार्यां विनीतां च सुतां सतीम्। सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥ १२॥ 🌹पुत्रपौत्रावतीं शुद्धां कुलजां कोमलां वराम्। अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥१३॥ 🌹परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्। भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४॥ 🌹हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेध्रुवम् ॥ १५॥ 🌹सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम्। हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥१६॥

    5 min
  3. Hema Malini Stotram हेमा मालिनी स्तोत्रम्

    24 OCT.

    Hema Malini Stotram हेमा मालिनी स्तोत्रम्

    ।। हेमामालिनी स्तोत्रम् ।। ध्यानं- हेमवर्णां चतुर्बाहुं रत्नसिंहासनस्थिताम्। पद्महस्ता वराभीति करां दन्तोल्लासितविग्रहम्।। कौस्तुभाभरणोपेतां कीर्तिमालाविभूषिताम्। त्रैलोक्यजननीं वन्दे हेममालिन्यरूपिणीम्।। स्तोत्रं- हेमवर्णे हेममाले हेमरत्नविभूषिते। हेमसिंहासिनि त्वं वै हेमलक्ष्मि नमोऽस्तु ते।।१।। सुवर्णशृङ्गारमयीं कनकद्युति भूषिताम्। रत्नराजिविलसिनीं हेमलक्ष्मीं नमाम्यहम्।।२।। हेमजटा जटाजूटे हेमकुण्डलमण्डिता। हेमांगदे हेमनूपुरे हेमकेयूरमण्डिता।।३।। हेमसारस्वती संयुक्ता हेमविष्णुपरायणा। हेमपद्मासनारूढा हेमनादविनादिनी।।४।। हेमवर्षाय च या नित्यं हेमकुबेरवन्दिता। हेमसंकल्पसम्पन्ना हेमकान्तिसमुद्धिता।।५।। हेमवर्णां शुभां देवीं रत्नमाल्यविभूषिताम्। कमलासनसंस्थां च भजे हेममालिनीं हरिप्रयाम्।।६।। सुवर्णसिंहासनस्थां स्वर्णकेयूरमण्डिताम्। स्वर्णकान्तिं समुद्धोष्यं स्वर्णलक्ष्मीं नमाम्यहम्।।७।। हिरण्यवर्णां हरिणीं सुवर्णाभरणोज्ज्वलाम्। चतुर्भुजां महालक्ष्मीं जयन्तीं नम्रतां गतः।।८।। हेममाल्यविलासिनीं रत्नसारविभूषिताम्। वज्रकान्तिं प्रदायिन्यां नमामि तां सुरेश्वरीम्।।९।। काञ्चनाभरणां देवीं चन्द्रकोटिसमप्रभाम्। हिरण्मयीं श्रीं ह्रीं क्लीं लक्ष्मीं नमाम्यहं सदा।।१०।। सर्वरत्ननिवासिन्यै सुवर्णस्रग्धरायै च। कमलाक्ष्यै महाशक्त्यै लक्ष्म्यै सौम्यायै नमः।।११।। स्वर्णसिन्धुतटायां या वसन्ति सदा सुरा। सा लक्ष्मीः पद्मपुष्पस्था मां कुर्यात्सर्वसंपदा।।१२।। हेमद्वीपविहारिण्यै काञ्चनदुर्गवासिनीम्। कुलदेवीं जगन्मातर्मां पालय शुभप्रदे।।१३।। हेमपुष्पैः समर्च्यां तां रत्नदीपैः सुसन्तुष्टाम्। नानाफलप्रदां देवीं वन्दे हेममालिनीम्।।१४।। हिरण्यकश्यपद्वेषीं विष्णुप्रियां महेश्वरीम्। स्वर्णसंपत्प्रदां लक्ष्मीं नमामि भक्तवत्सलाम्।।१५।। काञ्चनस्रग्धरां देवीं रत्नसिंहासनस्थिताम्। वेदविद्यामयीं लक्ष्मीं नमामि सर्वसिद्धये।।१६।। स्वर्णकीर्तिं प्रयच्छन्तीं स्वर्णरूपधरां शुभाम्। स्वर्णलक्ष्मीं नमाम्यद्य सुवर्णेन समृद्धये।।१७।। रत्नमालां च या धत्ते स्वर्णमालां च शोभनाम्। सा लक्ष्मीर्मम सर्वार्थं साधयत्वप्रणम्यताम्।।१८।। श्रीशक्तिं रत्नगर्भां च सुवर्णगात्रिनीं शुभाम्। श्रीं ह्रीं बीजसमायुक्तां लक्ष्मीं वन्दे पुनः पुनः।।१९।। स्वर्णराशिं करस्थां तां रत्नकुंभैः समन्विताम्। ददातु मे हेमलक्ष्मीः सर्वकामफलप्रदाम्।।२०।। हेमलता समुत्पन्ना कमलात्सहिते प्रभो। त्वं मे लक्ष्मीः सदा तिष्ठ न गृहं मम शोभय।।२१।। काञ्चनप्रभया युक्ता चन्द्रमण्डलमध्यगा। सा लक्ष्मीर्मे गृहे नित्यं भासमानं कुरु प्रभो।।२२।। स्वर्णपर्वतसङ्काशां स्वर्णतोरणमण्डिताम्। स्वर्णकलशहस्तां तां वन्दे हेममयीं शुभाम्।।२३।। स्वर्णरेखा समुद्भूतां ब्रह्मविद्याप्रकाशिनीम्। लक्ष्मीं ब्रह्मस्वरूपां तां नमामि सिद्धिदायिनीम्।।२४।। काञ्चनाङ्गीं वरांगीं च रत्नवेषविभूषिताम्। हेममालिनी लक्ष्मीं च सर्वशक्तिस्वरूपिणीम्।।२५।। श्रीं ह्रीं क्लीं हेममालिन्यै नमः कार्यसिद्धये। जप्यं स्तोत्रं मया प्रोक्तं लक्ष्मीप्रीत्यै सदा पठेत्।।२६।। ।। इति श्री हेमा-मालिनी स्तोत्रं संपूर्णम् ।।

    7 min
  4. Navgrah Stuti नवग्रह स्तुति

    18 OCT.

    Navgrah Stuti नवग्रह स्तुति

    Navgrah Stuti नवग्रह स्तुति ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥ आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥ रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥ सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥ कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥ अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥ बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥ तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥ वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥ विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥ भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥ हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥ कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम् छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥ मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥ अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥ रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥ इतिग्रहस्तुति

    3 min
  5. Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

    13 OCT.

    Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

    Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम् जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥  मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥  गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥  ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥  असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥  स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥  अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥  इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥  इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥

    4 min
  6. Sri Durga Panjar Stotram श्री दुर्गा पञ्जर स्तोत्रम्

    27 SEPT.

    Sri Durga Panjar Stotram श्री दुर्गा पञ्जर स्तोत्रम्

    • श्रीदुर्गा पञ्जरस्तोत्रम् • विनियोगः- ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः, छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः । * ध्यानम् ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् । हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि । अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् । * स्तोत्रम् - यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः । सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥ मार्कण्डेय उवाच - दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी । मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥ पथि देवालये दुर्गे अरण्ये पर्वते जले । सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥ दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने । महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥ व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे । ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥ खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः । ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥ कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी । रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥ अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा । वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥ देव द्वारे नदी तीरे राजद्वारे च सङ्कटे । पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥ दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् । पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥ रुद्रबाला महादेवी क्षमा च परमेश्वरी । अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥ इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।।

    4 min
  7. Durga Stuti दुर्गा स्तुति

    23 SEPT.

    Durga Stuti दुर्गा स्तुति

    Tantroktam Devi Suktam तंत्रोक्तम् देवी सूक्तम् ★ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मरताम् ।। 1 ।। रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः | ज्योसनायै चेंदु रुपिन्यै सुखायै सततं नमः ।।2।। कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः | नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।।3।। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।। 4 ।। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः | नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ||5|| या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 116।। या देवी सर्वभूतेषु चेतन्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||7|| या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||8|| या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||9|| या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||10|| या देवी सर्वभूतेषुच्छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।11।। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।12।। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।13।। या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।14।। या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||15|| या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||16|| या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।17।। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।18।। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।19।। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112011 या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।21।। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112211 या देवी सर्वभूतेषु दयारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।23।। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।24।। या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।25।। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।26।। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः।।27।। चितिरुपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।28।। स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ।।29।। या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते । याच स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ।।30।। ।।इति तन्त्रोक्तं देवी सूक्तं संपूर्णम्।।

    11 min
  8. Dash Mahavidya Stotram दश महाविद्या स्तोत्रम्

    19 SEPT.

    Dash Mahavidya Stotram दश महाविद्या स्तोत्रम्

    Dash Mahavidya Stotra दश महाविद्या स्तोत्र 🍁दुर्ल्लभं मारिणींमार्ग दुर्ल्लभं तारिणींपदम्। मन्त्रार्थ मंत्रचैतन्यं दुर्ल्लभं शवसाधनम्।। श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम्। क्रियासाधनमं भक्तिसाधनं मुक्तिसाधनम्।। तव प्रसादाद्देवेशि सर्व्वाः सिध्यन्ति सिद्धयः।। नमस्ते चण्डिके । चण्डि । चण्ड-मुण्ड-विनाशिनि । नमस्ते कालिके । काल-महा-भय-विनाशिनी ।। 1 ।। शिवे । रक्ष जगद्धात्रि । प्रसीद हरि-वल्लभे । प्रणमामि जगद्धात्री, जगत्-पालन-कारिणीम् ।। 2 ।। जगत्-क्षोभ-करीं विद्यां, जगत्-सृष्टि-विधायिनीम् । करालां विकटा घोरां, मुण्ड-माला-विभूषिताम् ।। 3 ।। हरार्चितां हराराध्यां, नमामि हर-वल्लभाम् । गौरीं गुरु-प्रियां गौर-वर्णालंकार-भूषिताम् ।। 4 ।। हरि-प्रियां महा-मायां, नमामि ब्रह्म-पूजिताम् । सिद्धां सिद्धेश्वरीं सिद्ध-विद्या-धर-गणैर्युताम् ।। 5 ।। मन्त्र-सिद्धि-प्रदां योनि-सिद्धिदां लिंग-शोभिताम् । प्रणमामि महा-मायां, दुर्गा दुर्गति-नाशिनीम् ।। 6 ।। उग्रामुग्रमयीमुग्र-तारामुग्र - गणैर्युताम् । नीलां नील-घन-श्यामां, नमामि नील-सुन्दरीम् ।। 7 ।। श्यामांगीं श्याम-घटिकां, श्याम-वर्ण-विभूषिताम् । प्रणामामि जगद्धात्री, गौरीं सर्वार्थ साधिनीम् ।। 8 ।। विश्वेश्वरीं महा-घोरां, विकटां घोर-नादिनीम् । आद्यामाद्य-गुरोराद्यामाद्यानाथ-प्रपूजिताम् ।। 9 || श्रीदुर्गा धनदामन्न-पूर्णां पद्मां सुरेश्वरीम् । प्रणमामि जगद्धात्री, चन्द्र-शेखर-वल्लभाम् ।। 10 ।। त्रिपुरा-सुन्दरीं बालामबला-गण-भूषिताम् । शिवदूतीं शिवाराध्यां, शिव-ध्येयां सनातनीम् ।। 11 ।। सुन्दरीं तारिणीं सर्व-शिवा-गण-विभूषिताम् । नारायणीं विष्णु-पूज्यां, ब्रह्म-विष्णु-हर-प्रियाम् ।। 12 ।। सर्व-सिद्धि-प्रदां नित्यामनित्य-गण-वर्जिताम् । सगुणां निर्गुणां ध्येयामर्चितां सर्व-सिद्धिदाम् ।। 13 ।। विद्यां सिद्धि-प्रदां विद्यां, महा-विद्या-महेश्वरीम् । महेश-भक्तां माहेशीं, महा-काल-प्रपूजिताम् ।। 14 ।। प्रणमामि जगद्धात्री, शुम्भासुर-विमर्दिनीम् । रक्त-प्रियां रक्त-वर्णां, रक्त-वीज-विमर्दिनीम् ।। 15 ।। भैरवीं भुवना-देवी, लोल-जिह्वां सुरेश्वरीम् । चतुर्भुजां दश-भुजामष्टा-दश-भुजां शुभाम् ।। 16 ।। त्रिपुरेशीं विश्व-नाथ-प्रियां विश्वेश्वरीं शिवाम् । अट्टहासामट्टहास-प्रियां धूम्र-विनाशिनीम् ।। 17 ।। कमलां छिन्न-मस्तां च, मातंगीं सुर-सुन्दरीम् । षोडशीं विजयां भीमां, धूम्रां च बगलामुखीम् ।। 18 ।। सर्व-सिद्धि-प्रदां सर्व-विद्या-मन्त्र-विशोधिनीम् । प्रणमामि जगत्तारां, सारं मन्त्र-सिद्धये ।। 19 ।। ।। फल-श्रुति ।। इत्येवं व वरारोहे, स्तोत्रं सिद्धि-करं प्रियम् । पठित्वा मोक्षमाप्नोति, सत्यं वै गिरि-नन्दिनि ।। 1 ।। कुज-वारे चतुर्दश्याममायां जीव-वासरे । शुक्रे निशि-गते स्तोत्रं, पठित्वा मोक्षमाप्नुयात् ।। 2 ।। त्रिपक्षे मन्त्र-सिद्धिः स्यात्, स्तोत्र-पाठाद्धि शंकरी । चतुर्दश्यां निशा-भागे, शनि-भौम दिने तथा ।। 3 ।। निशा-मुखे पठेत् स्तोत्रं, मन्त्र-सिद्धिमवाप्नुयात् । केवलं स्तोत्र-पाठाद्धि, मन्त्र-सिद्धिरनुत्तमा । जागर्ति सततं चण्डी-स्तोत्र-पाठाद्-भुजंगिनी ।। 4 ।। ।। श्रीमुण्ड-माला-तन्त्रे एकादश-पटले महा-विद्या-स्तोत्रम् ।।

    6 min

Notes et avis

5
sur 5
2 notes

À propos

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

Vous aimeriez peut‑être aussi