Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

  1. Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

    -4 ДН.

    Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

    Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम् जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च । योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥  मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन । मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥ कालरूपं कलयतां कालकालेश कारण । कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥  गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥  ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर । ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥ इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः । दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥  असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् । वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥  स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् । दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥  अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् । इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥  इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे । प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥  इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥

    4 мин.
  2. Sri Durga Panjar Stotram श्री दुर्गा पञ्जर स्तोत्रम्

    27 СЕНТ.

    Sri Durga Panjar Stotram श्री दुर्गा पञ्जर स्तोत्रम्

    • श्रीदुर्गा पञ्जरस्तोत्रम् • विनियोगः- ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः, छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः । * ध्यानम् ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् । हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि । अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् । * स्तोत्रम् - यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः । सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥ मार्कण्डेय उवाच - दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी । मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥ पथि देवालये दुर्गे अरण्ये पर्वते जले । सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥ दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने । महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥ व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे । ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥ खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः । ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥ कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी । रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥ अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा । वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥ देव द्वारे नदी तीरे राजद्वारे च सङ्कटे । पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥ दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् । पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥ रुद्रबाला महादेवी क्षमा च परमेश्वरी । अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥ इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ।।

    4 мин.
  3. Durga Stuti दुर्गा स्तुति

    23 СЕНТ.

    Durga Stuti दुर्गा स्तुति

    Tantroktam Devi Suktam तंत्रोक्तम् देवी सूक्तम् ★ नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मरताम् ।। 1 ।। रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः | ज्योसनायै चेंदु रुपिन्यै सुखायै सततं नमः ।।2।। कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः | नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ।।3।। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ।। 4 ।। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः | नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ||5|| या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 116।। या देवी सर्वभूतेषु चेतन्यभिधीयते नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||7|| या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||8|| या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||9|| या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||10|| या देवी सर्वभूतेषुच्छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।11।। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।12।। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।13।। या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।14।। या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||15|| या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||16|| या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।17।। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।18।। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।19।। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112011 या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।21।। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः 112211 या देवी सर्वभूतेषु दयारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।23।। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।24।। या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।25।। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।26।। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः।।27।। चितिरुपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।28।। स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ।।29।। या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते । याच स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः ।।30।। ।।इति तन्त्रोक्तं देवी सूक्तं संपूर्णम्।।

    11 мин.
  4. Dash Mahavidya Stotram दश महाविद्या स्तोत्रम्

    19 СЕНТ.

    Dash Mahavidya Stotram दश महाविद्या स्तोत्रम्

    Dash Mahavidya Stotra दश महाविद्या स्तोत्र 🍁दुर्ल्लभं मारिणींमार्ग दुर्ल्लभं तारिणींपदम्। मन्त्रार्थ मंत्रचैतन्यं दुर्ल्लभं शवसाधनम्।। श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम्। क्रियासाधनमं भक्तिसाधनं मुक्तिसाधनम्।। तव प्रसादाद्देवेशि सर्व्वाः सिध्यन्ति सिद्धयः।। नमस्ते चण्डिके । चण्डि । चण्ड-मुण्ड-विनाशिनि । नमस्ते कालिके । काल-महा-भय-विनाशिनी ।। 1 ।। शिवे । रक्ष जगद्धात्रि । प्रसीद हरि-वल्लभे । प्रणमामि जगद्धात्री, जगत्-पालन-कारिणीम् ।। 2 ।। जगत्-क्षोभ-करीं विद्यां, जगत्-सृष्टि-विधायिनीम् । करालां विकटा घोरां, मुण्ड-माला-विभूषिताम् ।। 3 ।। हरार्चितां हराराध्यां, नमामि हर-वल्लभाम् । गौरीं गुरु-प्रियां गौर-वर्णालंकार-भूषिताम् ।। 4 ।। हरि-प्रियां महा-मायां, नमामि ब्रह्म-पूजिताम् । सिद्धां सिद्धेश्वरीं सिद्ध-विद्या-धर-गणैर्युताम् ।। 5 ।। मन्त्र-सिद्धि-प्रदां योनि-सिद्धिदां लिंग-शोभिताम् । प्रणमामि महा-मायां, दुर्गा दुर्गति-नाशिनीम् ।। 6 ।। उग्रामुग्रमयीमुग्र-तारामुग्र - गणैर्युताम् । नीलां नील-घन-श्यामां, नमामि नील-सुन्दरीम् ।। 7 ।। श्यामांगीं श्याम-घटिकां, श्याम-वर्ण-विभूषिताम् । प्रणामामि जगद्धात्री, गौरीं सर्वार्थ साधिनीम् ।। 8 ।। विश्वेश्वरीं महा-घोरां, विकटां घोर-नादिनीम् । आद्यामाद्य-गुरोराद्यामाद्यानाथ-प्रपूजिताम् ।। 9 || श्रीदुर्गा धनदामन्न-पूर्णां पद्मां सुरेश्वरीम् । प्रणमामि जगद्धात्री, चन्द्र-शेखर-वल्लभाम् ।। 10 ।। त्रिपुरा-सुन्दरीं बालामबला-गण-भूषिताम् । शिवदूतीं शिवाराध्यां, शिव-ध्येयां सनातनीम् ।। 11 ।। सुन्दरीं तारिणीं सर्व-शिवा-गण-विभूषिताम् । नारायणीं विष्णु-पूज्यां, ब्रह्म-विष्णु-हर-प्रियाम् ।। 12 ।। सर्व-सिद्धि-प्रदां नित्यामनित्य-गण-वर्जिताम् । सगुणां निर्गुणां ध्येयामर्चितां सर्व-सिद्धिदाम् ।। 13 ।। विद्यां सिद्धि-प्रदां विद्यां, महा-विद्या-महेश्वरीम् । महेश-भक्तां माहेशीं, महा-काल-प्रपूजिताम् ।। 14 ।। प्रणमामि जगद्धात्री, शुम्भासुर-विमर्दिनीम् । रक्त-प्रियां रक्त-वर्णां, रक्त-वीज-विमर्दिनीम् ।। 15 ।। भैरवीं भुवना-देवी, लोल-जिह्वां सुरेश्वरीम् । चतुर्भुजां दश-भुजामष्टा-दश-भुजां शुभाम् ।। 16 ।। त्रिपुरेशीं विश्व-नाथ-प्रियां विश्वेश्वरीं शिवाम् । अट्टहासामट्टहास-प्रियां धूम्र-विनाशिनीम् ।। 17 ।। कमलां छिन्न-मस्तां च, मातंगीं सुर-सुन्दरीम् । षोडशीं विजयां भीमां, धूम्रां च बगलामुखीम् ।। 18 ।। सर्व-सिद्धि-प्रदां सर्व-विद्या-मन्त्र-विशोधिनीम् । प्रणमामि जगत्तारां, सारं मन्त्र-सिद्धये ।। 19 ।। ।। फल-श्रुति ।। इत्येवं व वरारोहे, स्तोत्रं सिद्धि-करं प्रियम् । पठित्वा मोक्षमाप्नोति, सत्यं वै गिरि-नन्दिनि ।। 1 ।। कुज-वारे चतुर्दश्याममायां जीव-वासरे । शुक्रे निशि-गते स्तोत्रं, पठित्वा मोक्षमाप्नुयात् ।। 2 ।। त्रिपक्षे मन्त्र-सिद्धिः स्यात्, स्तोत्र-पाठाद्धि शंकरी । चतुर्दश्यां निशा-भागे, शनि-भौम दिने तथा ।। 3 ।। निशा-मुखे पठेत् स्तोत्रं, मन्त्र-सिद्धिमवाप्नुयात् । केवलं स्तोत्र-पाठाद्धि, मन्त्र-सिद्धिरनुत्तमा । जागर्ति सततं चण्डी-स्तोत्र-पाठाद्-भुजंगिनी ।। 4 ।। ।। श्रीमुण्ड-माला-तन्त्रे एकादश-पटले महा-विद्या-स्तोत्रम् ।।

    6 мин.
  5. Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र

    1 СЕНТ.

    Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र

    Utpaat Nashan Ganesh Stotra उत्पात नाशन गणेश स्तोत्र यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् । भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च ॥ हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहयोः । अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च ॥ स्वर्गपाताललोकानां पृथिव्या जलधेरपि । नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम् ॥ वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च । उत्पत्तिस्थितिसंहारकारिणे ते नमो नमः ॥ पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने । नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे ॥ नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे । मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते ॥ नमोऽभक्तविनाशाय नमो भक्तप्रियाय च । अधिदैवाधिभूतात्मंस्तापत्रयहराय ते ॥ सर्वोत्पातविघाताय नमो लीलास्वरूपिणे । सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः ॥ अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते। परब्रह्मस्वरूपाय नमः कश्यपसूनवे ॥ अमेयमायान्वितविक्रमाय मायाविने मायिकमोहनाय । अमेयमायाहरणाय माया- महाश्रयायास्तु नमो नमस्ते ॥ य इदं पठते स्तोत्रं त्रिसंध्योत्पातनाशनम् । न भवन्ति महोत्पाता विघ्ना भूतभयानि च॥ त्रिसंध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात्। विनायकः सदा तस्य रक्षणं कुरुतेऽनघ ॥ इति श्रीगणेशपुराणे उत्पातनाशनगणेशस्तोत्रं सम्पूर्णम् ॥

    4 мин.
  6. Bhootnath Ashtakam भूतनाथ अष्टकम‌्

    27 АВГ.

    Bhootnath Ashtakam भूतनाथ अष्टकम‌्

    Bhootnath Ashtakam भूतनाथ अष्टकम‌् शिव शिव शक्तिनाथं संहारं शं स्वरूपं      नव नव नित्यनृत्यं ताण्डवं तं तन्नादम्। घन घन घूर्णिमेघं घङ्घोरं घं निनादं      भज भज भस्मलेपं भजामि भूतनाथम्।।१।। कल कल कालरूपं कल्लोलं कं करालं      डम डम डमनादं डम्बुरुं डङ्कनादम्। सम सम शक्तग्रीवं सर्वभूतं सुरेशं       भज भज भस्मलेपं भजामि भूतनाथम्।।२।। रम रम रामभक्तं रमेशं रां रारावं       मम मम मुक्तहस्तं महेशं मं मधुरम्।  बम बम ब्रह्मरूपं वामेशं बं विनाशं       भज भज भस्मलेपं भजामि भूतनाथम्।।३।। हर हर हरिप्रियं त्रितापं हं संहारं       खम खम क्षमाशीलं सपापं खं क्षमणम्। द्दग द्दग ध्यानमूर्त्तिं सगुणं धं धारणं       भज भज भस्मलेपं भजामि भूतनाथम्।।४।। पम पम पापनाशं प्रज्वलं पं प्रकाशं        गम गम गुह्यतत्त्वं गिरीशं गं गणानाम्। दम दम दानहस्तं धुन्दरं दं दारुणं        भज भज भस्मलेपं भजामि भूतनाथम्।।५।। गम गम गीतनाथं दूर्गमं गं गन्तव्यं       टम टम रुण्डमालं टङ्कारं टङ्कनादम्। भम भम भ्रं भ्रमरं भैरवं क्षेत्रपालं       भज भज भस्मलेपं भजामि भूतनाथम्।।६।। त्रिशूलधारी संहारकारी गिरिजानाथं ईश्वरं       पार्वतीपति त्वं मायापति शुभ्रवर्णं महेश्वरम्। कैलासनाथ सतिप्राणनाथ महाकालं कालेश्वरं       अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।७।। नीलकण्ठाय सत्स्वरूपाय सदाशिवाय नमो नमः        यक्षरूपाय जटाधराय नागदेवाय नमो नमः। इन्द्रहाराय त्रिलोचनाय गङ्गाधराय नमो नमः        अर्धचन्द्रं शिरकिरीटं भूतनाथं शिवं भजे।।८।। तव कृपा कृष्णदासः भजति भूतनाथं       तव कृपा कृष्णदासः स्मरति भूतनाथम्। तव कृपा कृष्णदासः पश्यति भूतनाथं       तव कृपा कृष्णदासः पिबति भूतनाथम्।।९।। यः पठति निष्कामभावेन सः शिवलोकं सगच्छति।  इति श्री कृष्णदासविरचितं भूतनाथ अष्टकम‌् सम्पूर्णम् ।।

    6 мин.
  7. Dash Lakshan Pooja दशलक्षण पूजा

    23 АВГ.

    Dash Lakshan Pooja दशलक्षण पूजा

    Dash Lakshan Pooja दशलक्षण पूजा उत्तम छिमा मारदव आरजव भाव है, सत्य शौच संयम तप त्याग उपाव हैं | आकिंचन ब्रह्मचर्य धरम दस सार हैं, चहुँगति दुखते काढि मुक्ति करतार हैं || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय ! अत्र अवतर अवतर संवौषट ! अत्र तिष्ठ तिष्ठ ठ: ठ: ! अत्र मम सन्निहितो भव भव वषट ! हेमाचलकी धार,मुनि-चित सम शीतल सुरभि | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जन्म-जरा-मृत्यु-विनाशनाये जलं निर्वपामिति स्वाहा | चन्दन केसर गार, होय सुवास दसों दिशा | भव-आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय संसारताप-विनाशनाये चन्दनं निर्वपामिति स्वाहा | अमल अखंडित सार, तंदुल चन्द्र समान शुभ | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अक्षय-पद प्राप्ताये अक्षतं निर्वपामिति स्वाहा | फुल अनेक प्रकार, महके ऊरघ -लोकलों | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय काम-बाण विध्वंसनाये पुष्पं निर्वपामिति स्वाहा | नेवज विविध निहार, उत्तम षट-रस संजुगत | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय क्षुधा-रोग विनाशनाये नैवेद्यं निर्वपामिति स्वाहा | बाती कपूर सुधार, दीपक-जोती सुहावनी | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय मोहान्धकार-विनाशनाये दीपं निर्वपामिति स्वाहा | अगर धुप विस्तार, फैले सर्व सुगन्धता | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अष्ट-कर्म-दह्नाये धूपं निर्वपामिति स्वाहा | फल की जाति अपार, घ्राण-नयन-मन-मोहने | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय महामोक्ष-फल प्राप्ताये निर्वपामिति स्वाहा | आठो दरब संवार, धानत अधिक उछाहसौ | भव-.आताप निवार, दस-लच्छन पूजौं सदा || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय अनर्घ-पद-प्राप्तये अर्घं निर्वपामिति स्वाहा | जयमाला दस लच्छन वंदो सदा, मनवांछित फलदाय | कहो आरती भारती, हम पर होहु सहाय || उत्तम क्षिमा जहाँ मन होई, अंतर-बाहिर शत्रु न कोई | उत्तम मार्दव विनय प्रकाशे , नाना भेद ज्ञान सन भासे || उत्तम आर्जव कपट मिटावे, दुरगति त्यागी सुगति उपजावे | उत्तम सत्य वचन मुख बोले, सो प्राणी संसार न डोले || उत्तम शौच लोभ-परिहारी, संतोषी गुण-रतन भण्डारी | उत्तम संयम पाले ज्ञाता, नर-भव सकल करे ले साता || उत्तम तप निर्वांछित पाले, सो नर करम-शत्रु को टाले | उत्तम त्याग करे जो कोई, भोगभूमि-सुर-शिवसुख होई || उत्तम आकिंचन व्रत धारै, परम समाधी दसा विस्तारे | उत्तम ब्रह्मचर्य मन लावे, नर-सुर सहित मुकती-फल पावे || ॐ ह्रीं उत्तम-क्षमा-मार्दव-आर्जव-शौच-सत्य-संयम-तप-त्याग-आकिंचन-ब्रह्मचर्य-आदि-दसलक्षण-धर्माय जयमाला पूर्णार्घम निर्वपामिति स्वाहा | दोहा:- करे करम की निरजरा, भव पिंजरा विनाश | अजर अमर पद को लहे, द्यानत सुख की राश || ||पुष्पांजलि क्षिपेत||

    18 мин.
  8. Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्

    18 ИЮЛ.

    Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम्

    Trailokya Mangalam Naam Laxmi Stotram त्रैलोक्य मंगलं नाम लक्ष्मी स्तोत्रम् नमः कल्याणदे देवि नमोऽस्तु हरिवल्लभे । नमो भक्तप्रिये देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ १॥ नमो मायागृहीताङ्गि नमोऽस्तु हरिवल्लभे । सर्वेश्वरि नमस्तुभ्यं लक्ष्मीदेवि नमोऽस्तु ते ॥ २॥ महामाये विष्णुधर्मपत्नीरूपे हरिप्रिये । वाञ्छादात्रि सुरेशानि लक्ष्मीदेवि नमोऽस्तुते॥३॥ उद्यद्भानुसहस्राभे नयनत्रयभूषिते । रत्नाधारे सुरेशानि लक्ष्मीदेवि नमोऽस्तुते ॥ ४॥ विचित्रवसने देवि भवदुःखविनाशिनि । कुचभारनते देवि ! लक्ष्मीदेवि नमोऽस्तुते ॥ ५॥ साधकाभीष्टदे देवि अन्नदानरतेऽनघे । विष्ण्वानन्दप्रदे मातर्लक्ष्मीदेवि नमोऽस्तु ते ॥ ६॥ षट्कोणपद्ममध्यस्थे षडङ्गयुवतीमये । ब्रह्माण्यादिस्वरूपे च लक्ष्मीदेवि नमोऽस्तु ते।।७॥ देवि त्वं चन्द्रवदने सर्वसाम्राज्यदायिनि । सर्वानन्दकरे देवि लक्ष्मीदेवि नमोऽस्तु ते ॥ ८॥ पूजाकाले पठेद्यस्तु स्तोत्रमेतत्समाहितः । तस्य गेहे स्थिरा लक्ष्मीर्जायते नात्र संशयः ॥ ९॥ प्रातःकाले पठेद्यस्तु मन्त्रपूजापुरःसरम् । तस्य चान्नसमृद्धिः स्याद्वर्द्धमानो दिनेदिने ॥ १०॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन ।प्रकाशात्कार्यहानिः स्यात्तस्माद्यत्नेन गोपयेत्११॥ त्रैलोक्यमङ्गलं नाम स्तोत्रमेतत्प्रकीर्तितम् । ब्रह्मविद्यास्वरूपञ्च महैश्वर्यप्रदायकम् ॥ १२॥ 🪷🪷🪷🪷🪷

    4 мин.

Оценки и отзывы

5
из 5
Оценок: 2

Об этом подкасте

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

Вам может также понравиться