Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers

Rajat Jain

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

  1. Sri Kameshwari Stuti श्री कामेश्वरी स्तुति

    4D AGO

    Sri Kameshwari Stuti श्री कामेश्वरी स्तुति

    Sri Kameshwari Stuti श्री कामेश्वरी स्तुति ओम ऐं ह्मीं क्लीं कामाख्यायै नमः। ओम क्लीं क्लीं कामाख्या क्लीं क्लीं नमः। युधिष्ठिर उवाच - नमस्ते परमेशानि ब्रह्मरूपे सनातनि । सुरासुरजगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ १॥ न ते प्रभावं जानन्ति ब्रह्माद्यास्त्रिदशेश्वराः । प्रसीद जगतामाद्ये कामेश्वरि नमोऽस्तु ते ॥ २॥ अनादिपरमा विद्या देहिनां देहधारिणी । त्वमेवासि जगद्वन्द्ये कामेश्वरि नमोऽस्तु ते ॥ ३॥ त्वं बीजं सर्वभूतानां त्वं बुद्धिश्चेतना धृतिः । त्वं प्रबोधश्च निद्रा च कामेश्वरि नमोऽस्तु ते ॥ ४॥ त्वामाराध्य महेशोऽपि कृतकृत्यं हि मन्यते । आत्मानं परमात्माऽपि कामेश्वरि नमोऽस्तु ते ॥ ५॥ दुर्वृत्तवृत्तसंहर्त्रि पापपुण्यफलप्रदे । लोकानां तापसंहर्त्रि कामेश्वरि नमोऽस्तु ते ॥ ६॥ त्वमेका सर्वलोकानां सृष्टिस्थित्यन्तकारिणी । करालवदने कालि कामेश्वरि नमोऽस्तु ते ॥ ७॥ प्रपन्नार्तिहरे मातः सुप्रसन्नमुखाम्बुजे । प्रसीद परमे पूर्णे कामेश्वरि नमोऽस्तु ते ॥ ८॥ त्वामाश्रयन्ति ये भक्त्या यान्ति चाश्रयतां तु ते । जगतां त्रिजगद्धात्रि कामेश्वरि नमोऽस्तु ते ॥ ९॥ शुद्धज्ञानमये पूर्णे प्रकृतिः सृष्टिभाविनी । त्वमेव मातर्विश्वेशि कामेश्वरि नमोऽस्तु ते ॥ १०॥ ।।इति श्रीमहाभागवते महापुराणे युधिष्ठिरकृता कामेश्वरीस्तुतिः सम्पूर्णा ।।

    3 min
  2. Ganpati Keelakam गणपति कीलकम्

    FEB 3

    Ganpati Keelakam गणपति कीलकम्

    Shri Ganesh Keelak Stotram श्री गणेश कीलक स्तोत्रम् दक्ष उवाच। गणेशकीलकं ब्रह्मन् वद सर्वार्थदायकम्। मन्त्रादीनां विशेषेण सिद्धिदं पूर्णभावतः।।१।। मुद्गल उवाच। कीलकेन विहीनाश्च मन्त्रा नैव सुखप्रदाः। आदौ कीलकमेवं वै पठित्वा जपमाचरेत्।।२।। तदा वीर्ययुता मन्त्रा नानासिद्धिप्रदायकाः। भवन्ति नात्र सन्देहः कथयामि यथाश्रुतम्।।३।। समादिष्टं चाङ्गिरसा मह्यं गुह्यतमं परम्। सिद्धिदं वै गणेशस्य कीलकं श‍ृणु मानद।।४।। अस्य श्रीगणेशकीलकस्य शिव ऋषिः। अनुष्टुप्छन्दः। श्रीगणपतिर्देवता। ॐ गं योगाय स्वाहा। ॐ गं बीजम्। विद्याशक्तिगणपतिप्रीत्यर्थे जपे विनियोगः। छन्दऋष्यादिन्यासांश्च कुर्यादादौ तथा परान्। एकाक्षरस्यैव दक्ष षडङ्गानाचरेत् सुधीः।।५।। ततो ध्यायेद्गणेशानं ज्योतिरूपधरं परम्। मनोवाणीविहीनं च चतुर्भुजविराजितम्।।६।। शुण्डादण्डमुखं पूर्णं द्रष्टुं नैव प्रशक्यते। विद्याऽविद्यासमायुक्तं विभूतिभिरुपासितम्।।७।। एवं ध्यात्वा गणेशानं मानसैः पूजयेत्पृथक्। पञ्चोपचारकैर्दक्ष ततो जपं समाचरेत्।।८।। एकविंशतिवारं तु जपं कुर्यात्प्रजापते। ततः स्तोत्रं समुच्चार्य पश्चात्सर्वं समाचरेत्।।९।। रूपं बलं श्रियं देहि यशो वीर्यं गजानन। मेधां प्रज्ञां तथा कीर्तिं विघ्नराज नमोऽस्तु ते।।१०।। यदा देवादयः सर्वे कुण्ठिता दैत्यपैः कृताः। तदा त्वं तान्निहत्य स्म करोषि वीर्यसंयुतान्।।११।। तथा मन्त्रा गणेशान कुण्ठिताश्च दुरात्मभिः। शापैश्च तान्सवीर्यांस्ते कुरुष्व त्वं नमो नमः।।१२।। शक्तयः कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो। ज्ञानयुक्ताः सवीर्याश्च कृता विघ्नेश ते नमः।।१३।। चराचरं जगत्सर्वं सत्ताहीनं यदा भवेत्। त्वया सत्तायुतं ढुण्ढे स्मरणेन कृतं च ते।।१४।। तत्त्वानि वीर्यहीनानि यदा जातानि विघ्नप। स्मृत्या ते वीर्ययुक्तानि पुनर्जातानि ते नमः।।१५।। ब्रह्माणि योगहीनानि जातानि स्मरणेन ते। यदा पुनर्गणेशान योगयुक्तानि ते नमः।।१६।। इत्यादि विविधं सर्वं स्मरणेन च ते प्रभो। सत्तायुक्तं बभूवैव विघ्नेशाय नमो नमः।।१७।। तथा मन्त्रा गणेशान वीर्यहीना बभूविरे। स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान्कुरुष्व ते।।१८।। सर्वं सत्तासमायुक्तं मन्त्रपूजादिकं प्रभो। मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः।।१९।। उत्कीलय महामन्त्रान् जपेन स्तोत्रपाठतः। सर्वसिद्धिप्रदा मन्त्रा भवन्तु त्वत्प्रसादतः।।२०।। गणेशाय नमस्तुभ्यं हेरम्बायैकदन्तिने।0 स्वानन्दवासिने तुभ्यं ब्रह्मणस्पतये नमः।।२१।। गणेशकीलकमिदं कथितं ते प्रजापते। शिवप्रोक्तं तु मन्त्राणामुत्कीलनकरं परम्।।२२।। यः पठिष्यति भावेन जप्त्वा ते मन्त्रमुत्तमम्। स सर्वसिद्धिमाप्नोति नानामन्त्रसमुद्भवाम्।।२३।। एनं त्यक्त्वा गणेशस्य मन्त्रं जपति नित्यदा। स सर्वफलहीनश्च जायते नात्र संशयः।।२४।। सर्वसिद्धिकरं प्रोक्तं कीलकं परमाद्भुतम्। पुरानेन स्वयं शम्भुर्मन्त्रजां सिद्धिमालभत्।।२५।। विष्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे। अनेन मन्त्रसिद्धिं ते लेभिरे च प्रजापते।।२६।। ऐलः कीलकमाद्यं वै कृत्वा मन्त्रपरायणः। गतः स्वानन्दपूर्यां स भक्तराजो बभूव ह।।२७।। सस्त्रीको जडदेहेन ब्रह्माण्डमवलोक्य तु। गणेशदर्शनेनैव ज्योतीरूपो बभूव ह।।२८।। दक्ष उवाच। Esho जडशरीरस्थः कथं देवादिकैर्युतम्। ब्रह्माण्डं स ददर्शैव तन्मे वद कुतूहलम्।।२९।। पुण्यराशिः स्वयं साक्षान्नरकादीन् महामते। अपश्यच्च कथं सोऽपि पापिदर्शनयोग्यकान्।।३०।। मुद्गलवाच। विमानस्थः स्वयं राजा कृपया तान् ददर्श ह। गाणेशानां जडस्थश्च शिवविष्णुमुखान् प्रभो।।३१।। स्वानन्दगे विमाने ये संस्थितास्ते शुभाशुभे। योगरूपतया सर्वे दक्ष पश्यन्ति चाञ्जसा।।३२।। टी एतत्ते कथितं सर्वमैलस्य चरितं शुभम्। यः श‍ृणोति स वै मर्त्यः भुक्तिं मुक्तिं लभेद्ध्रुवम्।।३३।। ।। इति श्रीमुद्गलमहापुराणे पङ्चमे खण्डे लम्बोदरचरिते श्रवणमाहात्म्यवर्णनं नाम पञ्चचत्वारिंशत्तमोऽध्याये श्रीगणेशकीलकस्तोत्रं सम्पूर्णम् ।।

    9 min
  3. Maha Lakshmi Stotram महालक्ष्मी स्तोत्रम्

    JAN 28

    Maha Lakshmi Stotram महालक्ष्मी स्तोत्रम्

    // श्री महालक्ष्मी स्तोत्र // श्री गणेशाय नमः !! पद्मे पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जयमातर्महालक्ष्मि संसारार्णवतारिणि ॥१॥ महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥२॥ पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूताहितार्थाय वसुवृष्टिं सदा कुरु ॥३॥ जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तुते ॥४॥ नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥५॥ रक्ष त्वंदेवदेवेशि देवदेवस्य वल्लभे । दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥६॥ नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नम्म्ति त्वां जगदानंददायिनि ॥७॥ विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥८॥ अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥९॥ नमः प्रद्युम्रजननि मातस्तुभ्यं नमो नमः । परिपालय भो मातर्मा तुभ्यं शरणागतम् ॥१०॥ शर्ण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये । त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥११॥ पांडित्यं शोभते नैव न शोभंति गुणा नरे । शीलत्वं नैव शोभेत महालक्ष्मि त्वयाविना ॥१२॥ तावद्धिराजते रूपं तावच्छीलं विराजते । तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥१३॥ लक्ष्मि त्वयालंकृतमानवा ये पापैर्विमुक्तानृपलोकमान्याः । गुणैर्विहीना गुणिनो भवंति दुःशीलिनः शीलवतां वरिष्ठाः ॥१४॥ लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् । लक्ष्मीर्भूषयते विद्यां सर्वाल्लक्ष्मीर्विशिष्यते ॥१५॥ अस्माभिस्तव रूपलक्षणगुणान्वक्तुः कथं शक्यते । मातर्मा परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥१६॥ दैन्यार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् । कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायक्म कुरु ॥१७॥ मां विलोक्य जननि हरिप्रिये निर्धनं तव समीपमागतम् । देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्भुतम् ॥१८॥ त्वमेव जननी लक्ष्मि पिता लक्ष्मि त्वमेव च । भ्राता त्वं च सखा लक्ष्मि विद्या लक्ष्मि त्वमेव च ॥१९॥ त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि । त्राहि त्राहि जगन्मातर्दारिद्र्यात्त्राहिवेगतः ॥२०॥ नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः । धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनि ॥२१॥ दारिद्र्यार्णवामग्नोऽहं निमग्नोऽहं रसातले । मज्जंतं मां करे धृत्वा सुद्धर त्वं रमे द्रुतम् ॥२२॥ किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः । अनन्मे शरण नास्ति सत्यं सत्यं हरिप्रिये ॥२३॥ एतच्छुत्वाऽगस्तिवाक्यं ह्रष्यमाणा हरिप्रिया । उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥२४॥ लक्ष्मीरुवाच । यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । श्रृणोति च महाबागस्तस्याहं वशवर्तिनी ॥२५॥ नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति । ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥२६॥ यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः । गृहे तस्य सदा स्थास्ये नित्यं श्रीपतिनासह ॥२७॥ सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान् भवेत् । पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥२८॥ इदं स्तोत्रं महापुण्यं लक्ष्म्यगस्तिप्रकीर्तितम् । विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥२९॥ राजद्वारे जयश्चैव शत्रोश्चैव पराजयः । भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥३०॥ न शस्त्रानलतो यौधाद्भयं तस्य प्रजायते । दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥३१॥ मंदुराकरिशालासु गवां गोष्ठे समाहितः । पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥३२॥ सर्वसौख्यकरं नृणामायुरारोग्यदं तथा । अगस्तिमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥३३॥ इत्यगस्तिविरचितं श्रीमहालक्ष्मीस्तोत्रं संपूर्णम् ।। 🌺🌺

    9 min
  4. Ganpati Stotraraj गणपति स्तोत्रराज

    JAN 4

    Ganpati Stotraraj गणपति स्तोत्रराज

    Ganpati Stotraraj गणपति स्तोत्रराज अजं निर्विकल्पं निराकारमेकं निरानन्दमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥ १॥ गुणातीतमाद्यं चिदानन्दरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥ २॥ जगत्कारणं कारणाज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्वापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥ ३॥ रजोयोगततो ब्रह्मरूपं श्रुतिज्ञं सदा कार्यसक्तं हृदाऽचिन्त्यरूपम् । सर्वविद्यानिधानं जगत्कारकं परब्रह्मरूपं गणेशं नताः स्मः ॥ ४॥ सदा सत्त्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥ ५॥ तमोयोगिनं रुद्ररूप त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥ ६॥ तमःस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥ ७॥ निजैरौषधीस्तर्पयन्तं करोधैः सुरौघान्कलाभिः सुधास्राविणीभिः | दिनेशांशु सन्तापहारं द्विजेशं शशाङ्कस्वरूपं गणेशं नमामः ॥ ८॥ प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेक शक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥ ९॥ प्रधानस्वरूपं महतत्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूपं सदा विश्वरूपं गणेशं नमामः ॥ १०॥ त्वदीये मनः स्थापयेदङ्गियुग्मे जनो विघ्नसङ्खान्न पीडां लभेत । लसत्सूर्यविम्बे विशाले स्थितेऽयं जनो ध्वान्त पीडां कथं वा लभेत ॥ ११॥ वयं भ्रामिताः सर्वथाऽज्ञानयोगा दलब्ध्वा तवाङ्किम बहून्वर्षपूगान् । इदानीमवाप्तास्तवैव प्रसादात् प्रपन्नान सदा पाहि विश्वम्भराद्य ॥ १२॥ एवं स्तुतो गणेशस्तु सन्तुष्ठोऽभून्महामुने । कृपया परयोपेतोऽभिधातुं तान् प्रचक्रमे ॥ १३ ॥

    5 min
  5. Shri Yugalashtakam श्री युगलाष्टकम्

    12/27/2025

    Shri Yugalashtakam श्री युगलाष्टकम्

    // श्री युगल अष्टकम‌् // कृष्णप्रेममयी राधा, राधाप्रेममयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०१ कृष्णस्य द्रविणं राधा, राधाया द्रविणं हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०२ कृष्णप्राणमयी राधा, राधाप्राणमयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०३ कृष्ण द्रवमयी राधा, राधा द्रवमयो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०४ कृष्ण गृहस्थिता राधा, राधा गृहस्थितो हरिः। जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०५ कृष्ण चित्तस्थिता राधा, राधा चित्तस्थितो हरिः। जीवने निधने नित्यं राधाकृष्णौ गतिर्मम ।।०६ नीलाम्बराधारा राधा, पीताम्बर धरो हरिः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०७ वृन्दावनेश्वरी राधा, कृष्णौ वृन्दावनेशवरः। जीवने निधने नित्यं, राधाकृष्णौ गतिर्मम ।।०८ -०-०-०-०-०-०-०-

    2 min
  6. Mrit Sanjivani Shukra Vidya मृतसंजीवनी शुक्र विद्या

    12/22/2025

    Mrit Sanjivani Shukra Vidya मृतसंजीवनी शुक्र विद्या

    मृतसंजीवनीमन्त्र शुक्रविद्या!! ✓     विनियोग:- ॐ अस्य श्रीमृतसंजीवनी महामन्त्रस्य ॐ सदाशिव ऋषिः । ॐ गायत्रीच्छंदः । ॐ पराशक्तिर्देवता। ॐ हं बीजं। ॐ सौं शक्तिः । ॐ हं कीलकं । ॐ श्रीं पराशक्ति प्रीत्यर्थं सर्वमंत्र संजीवनार्थं शीघ्रं उपनामं प्रसिद्धयर्थं जपे विनियोगः।  ॥ ध्यानम्॥ ॐ नमो भगवति मंत्रमातृके अक्षमालिके सर्वदा स्फुरसि सर्वहृदि वससि नमस्ते परारूपे । नमस्ते पश्यंती रूपे। नमस्ते मध्यमारूपे । नमस्ते वैखरी रूपे । सर्व तत्वात्मिके । सर्व विद्यात्मिके । सर्व शक्तयात्मिके । सर्व मन्त्र शाप विमोचनि। सर्वं मंत्र संजीवनि । सर्व देवतात्मिके भगवति मंत्रमातृके अक्षमालिके नमस्ते नमस्ते नमस्ते ।  इतिध्यात्वा । मन्त्रो यथा -  ॐ ह्रीं श्रीं ॐ भूर्भुवः स्वः ॐ अं आं इं ईं ह्रीं हैं ह्रीं जूं सः सर्वमंत्रान् संजीवय- संजीवय स्वाहा । ॐ ह्रीं जूं सः ॐ भूर्भुवः स्वः ॐ उं ऊं ऋ ॠ सर्वमंत्र यंत्राणां संजीवनं कुरु कुरु स्वाहा ।  ॐ भूर्भुवः स्वः ॐ लूं लूं ॐ ह्रीं हंसः सोहं रं रं रं सर्व मंत्रान् संजीवय संजीवय कुरु कुरु स्वाहा ।  ॐ भूर्भुवः स्वः ॐ एं ऐं ॐ ह्रीं रं रं रं सर्वमंत्राक्षराणां उत्कीलय उत्कीलय स्वाहा ।  ॐ भूर्भुवः स्वः ॐ ओं औं अं अः ॐ ह्रीं ॐ ह्रीं ह्रीं सर्व मंत्र यंत्र तंत्रादीनां संजीवय संजीवय रं रं रं ठः ठः ठः सर्व मंत्र संजीवन कुरु कुरु स्वाहा ।  ॐ त्वमाद्यानंत शक्ति स्तवं प्रवाहो जायते त्वया ।  सास्मृता पूजिता ध्याता योगिनामपि सिद्धिदा ॥  ॐ त्वया बद्धा सर्व देवा भ्रमंति निज कर्मणा।  सा तुष्टा सर्व मंत्राणां अमृता सिद्धि दायिनि ॥  ॐ मंत्र संजीवनी विद्या वसिष्ठेन च साश्रिता।  सिद्धिदा सर्व मंत्राणां सदाशिव प्रसादतः ॥  जपादौ बा पाठादौ वा जपान्ते वा पाठान्ते ।  सप्तवारं पठित्वा तु शीघ्रं सिद्धिं लभेन्नरः॥ ॥ इति मृतसंजीवनी शुक्र विद्या ॥

    3 min
  7. Surabhi Stotram सुरभि स्तोत्रम्

    11/06/2025

    Surabhi Stotram सुरभि स्तोत्रम्

    ।। श्री सुरभि स्तोत्रम् ।। ✓ नमो देव्यै महादेव्यै सुरभ्यै च नमो नमः । गवां बीज स्वरूपायै नमस्ते जगदम्बिके ॥ १॥ नमो राधा प्रियायै च पद्मांशायै नमो नमः । नमः कृष्ण प्रियायै च गवां मात्रे नमो नमः ॥ २॥ कल्पवृक्ष स्वरूपायै सर्वेषां सततं परम् । श्रीदायै धनदायै च बुद्धिदायै नमो नमः ॥ ३॥ शुभदायै प्रसन्नायै गोप्रदायै नमो नमः । यशोदायै सौख्यदायै धर्मदायै नमो नमः ॥ ४॥ स्तोत्र स्मरण मात्रेण तुष्टा हृष्टा जगत्प्रसूः । आविर्बभूव तत्रैव ब्रह्मलोके सनातनी ॥ ५॥ महेन्द्राय वरं दत्त्वा वाञ्छितं सर्व दुर्लभम् । जगाम सा च गोलोकं ययुर्देवादयो गृहम् ॥ ६॥ बभूव विश्वं सहसा दुग्धपूर्णं च नारद । दुग्धाद्घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च ॥ ७॥ इदं स्तोत्रं महापुण्यं भक्तियुक्तश्च यः पठेत् । स गोमान् धनवांश्चैव कीर्तिवान् पुण्यवान् भवेत ॥ ८॥ सुस्नातः सर्व तीर्थेषु सर्व यज्ञेषु दीक्षितः । इह लोके सुखं भुक्त्वा यात्यन्ते कृष्ण मन्दिरम् ॥ ९॥ सुचिरं निवसेत्तत्र कुरुते कृष्ण सेवनम् । न पुनर्भवनं तस्य ब्रह्मपुत्रो भवे भवेत् ॥ १०॥ इति श्रीब्रह्मवैवर्त पुराणे प्रकृति खण्डे इन्द्रकृतं सुरभि स्तोत्रं सम्पूर्णम् ॥

    4 min
  8. Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र

    10/29/2025

    Sarva Dev Krit Lakshmi Stotra सर्वदेव कृत लक्ष्मी स्तोत्र

    🌹सर्वदेव कृत लक्ष्मी स्तोत्र 🌹 🌹क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे। शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥१॥ 🌹उपमे सर्वसाध्वीनां देवीनां देवपूजिते। त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ २॥ 🌹सर्वसम्पत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी। रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥३॥ 🌹कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका। स्वर्गे च स्वर्गलक्ष्मीस्त्वं मर्त्यलक्ष्मीश्च भूतले ॥ ४॥ 🌹वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती। गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥५॥ 🌹कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्। रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥६॥ 🌹कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतशृङ्गे च सुन्दरी ॥७॥ 🌹पद्मावती पद्मवने मालती मालतीवने। कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥८॥ 🌹कदम्बमाला त्वं देवी कदम्बकाननेऽपि च। राजलक्ष्मी राजगेहे गृहलक्ष्मीगृहे गृहे ॥९॥ 🌹इत्युक्त्वा देवताः सर्वे मुनयो मनवस्तथा। रुरुदुर्नम्रवदनाः शुष्ककण्ठोष्ठतालुकाः ॥१०॥ 🌹इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम्। यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११॥ 🌹अभार्यो लभते भार्यां विनीतां च सुतां सतीम्। सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम्॥ १२॥ 🌹पुत्रपौत्रावतीं शुद्धां कुलजां कोमलां वराम्। अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥१३॥ 🌹परमैश्वर्ययुक्तं च विद्यावन्तं यशस्विनम्। भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४॥ 🌹हतबन्धुर्लभेद्वन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठां च लभेध्रुवम् ॥ १५॥ 🌹सर्वमङ्गलदं स्तोत्रं शोकसंतापनाशनम्। हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥१६॥

    5 min

Ratings & Reviews

5
out of 5
2 Ratings

About

Chanting And Recitation Of Jain & Hindu Mantras And Prayers.

You Might Also Like